ये पृष᳚तीभिरृ॒ष्टिभि᳚ः सा॒कं वाशी᳚भिर॒ञ्जिभि᳚ः ।
अजा᳚यन्त॒ स्वभा᳚नवः ॥
अजा᳚यन्त॒ स्वभा᳚नवः ॥
पदपाठः (Word-by-word)
ये । पृष᳚तीभिः । ऋ॒ष्टि॑भिः᳚ । सा॒कम् । वाशी᳚भिः । अ॒ञ्जि॑भिः᳚ ।
अजा᳚यन्त । स्व॑भा᳚नवः ॥
अजा᳚यन्त । स्व॑भा᳚नवः ॥
सायणभाष्यम् (Sayana Commentary)
ये मरुतः पृषत्यादिभिः साकं स्वभानवः स्वकीयदीप्तियुक्ता अजायंत इति संपन्नाः । पृषत्यो बिंदुयुक्ता मृग्यो मरुद्वाहनभूताः । पृषत्यो मरुतामिति निघंटावुक्तत्वात् । ऋष्टय आयुधानि । वाश्यः शब्दविशेषाः परकीयसेनाभीतिहेतवः । वाशी वाणीति वाङ्नामसु पठितत्वात् । अंजयोऽलंकरणानि । तान् स्तुम इति शेषः ॥ अजायंत । जनीप्रादुर्भावे । श्यनि ज्ञाजनोर्जा (पा ७-३-७९) इति जादेशः । अडागम उदात्तः । स्वभानवः । स्वकीया भानवो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ २ ॥