श्रवणम्

1.37.7
नि वो॒ यामा᳚य॒ मानु᳚षो द॒ध्र उ॒ग्राय᳚ म॒न्यवे᳚ ।
जिही᳚त॒ पर्व᳚तो गि॒रिः ॥
▶ पदपाठः (Word-by-word)
नि । वः॒ । यामा᳚य । मानु᳚षः । द॒ध्रे । उ॒ग्राय᳚ । म॒न्यवे᳚ ।
जिही᳚त । पर्व᳚तः । गि॒रिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो वो युष्माकं यामाय गमनार्थं मानुषो गृहस्वामी कश्चिन्मनुजो नि दध्रे । गृहदार्ढ्यार्थं दृढं स्तंभं निक्षिप्तवान् । भवदीयगमनेन चालितं गृहं पतिष्यतीति भीत्या तन्निवारणाय दृढस्तंभप्रक्षेपः । कीदृशाय यमाय । उग्राय तीव्राय मन्यवे चालनार्थमभिमन्यमानाय । युज्यते हि

भवद्गमनाद्भीतिः । यतो भवद्गत्या चालितः पर्वतो बहुविधपर्वयुक्तो गिरिः शिखरी जिहीत गच्छेत् ॥ मानुषः । मनोर्जातावञ्यतौ षुक् च (पा ८-१-१६१) इति मनुशब्दादपत्यार्थेऽञ् षुगागमश्च । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम् । दध्रे । धृञ् अवस्थान इत्यस्य लिट कित्त्वाद्गुणाभावे सति यणादेशः । प्रत्ययस्वरः । पादादित्वान्न निघातः । जिहीत । ओहाङ् गतौ लिङि जुहोत्यादित्वाच्छपः श्लुः । भृञामित् (पा ७-४-७६) इत्यभ्यासस्येत्वम् । श्नाभ्यस्तयोरात इत्याकारलोपः । पर्ववान् । पर्वतः । मत्वर्थीयस्तप्रत्ययः ॥ ७ ॥