जम्भे॒ रस᳚स्य वावृधे ॥
पदपाठः (Word-by-word)
जम्भे᳚ । रस᳚स्य । व॒वृ॒धे॒ ॥
सायणभाष्यम् (Sayana Commentary)
गोषु मरुन्मातृभूतपृश्निप्रभृतिषु धेनुष्ववस्थितम् । पृश्नियै वै पयसो मरुतो जाताः । तै सं २-२-११-४ । इति श्रुत्यंतरात् । अघ्न्यमहंतव्यं क्रीळं विहारोपेतं मारुतं मरुत्संबंधि शर्धः प्रसहनशीलं तेजो यदस्ति तत्प्र शंस । हे ऋत्विक्समूह स्तुहि । रसस्य गोक्षीररूपस्य संबंधि तत्तेजो जंभे मुख उदरे वा ववृधे । वृद्धमभूत् ॥ शंस । शन्सु स्तुतौ । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । गोषु । सावेकाच इति प्राप्तस्य विभक्त्युदात्तस्य न गोश्वन्साववर्णेति प्रतिषेधः । अघ्न्यम् । घ्नो हननम् । घञर्थे कविधानम् । पा ३-३-५८-४ । इति कः । गमहनेत्यादिनोपधालोपः । हो हंतेः (पा ७-३-५४) इति घत्वम् । तदर्हतीति घ्न्यम् । छंदसि चेति यः । न घ्न्यमघ्न्यम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । क्रीळादयो गताः । जंभे । जभि नाशने । जंभ्यते भक्ष्यतेऽनेनेति जंभमास्यम् । करणे घङ् । ववृधे । वृधु वृद्धौ । लिट् । छांदसं संहितायामभ्यासदीर्घत्वं ॥ १२ ॥ ५ ॥