श्रवणम्

1.37.3
इ॒हेव᳚ शृण्व एषां॒ कशा॒ हस्ते᳚षु॒ यद्वदा᳚न् ।
नि याम᳚ञ्चि॒त्रमृ᳚ञ्जते ॥
▶ पदपाठः (Word-by-word)
इ॒ह॑इ᳚व । शृ॒ण्वे॒ । ए॒षा॒म् । कशाः᳚ । हस्ते᳚षु । यत् । वदा᳚न् ।
नि । याम᳚न् । चि॒त्रम् । ऋ॒ञ्ज॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां मरुतां हस्तेषु स्थिताः कशाः स्वस्ववाहनताडनहेतवो यद्वदान् यद्वदंति यं ध्वनिं कुर्वंति तं ध्वनिमिहेवात्रेव स्थित्वा श्रुण्वे । शृणोमि । स ध्वनिविशेषो यामन् । संग्रामे चित्रं विविधं शौर्यं न्यृंजते । नितरामलंकरोति । ऋजंतिः । प्रसाधनकर्मेति यास्कः । नि ६-२१ ॥ श्रुण्वे । श्रु श्रवणे । व्यत्ययेनात्मनेपदम् । श्रुवः शृ चेति श्नुः । हुश्नुवोः सार्वधातुक इति यणादेशः । वदान् । वद व्यक्तायां वाचि । लेट्याडागमः । इतश्च लोप इतीकारलोपे संयोगांतलोपः । आगमानुदात्तत्वे धातुस्वरः शिष्यते । यद्वृत्तयोगादनिघातः । यामन् । सुपां सुलुगिति सप्तम्या लुक् । न ङिसंबुद्ध्योः (पा ८-२-८) इति नलोपप्रतिषेधः । ऋंजते । ऋजि भृजी भर्जने । अत्र प्रसाधनार्थः ॥ ३ ॥