दे॒वत्तं॒ ब्रह्म᳚ गायत ॥
पदपाठः (Word-by-word)
दे॒वत्त᳚म् । ब्रह्म᳚ । गा॒य॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे ऋत्विजः वो युष्माकं संबंधिने शर्धाय प्रसहनशीलाय घृष्वये शत्रुघर्षणयुक्ताय त्वेषद्युम्नाय दीप्यमानयशसे । द्युम्नं द्योततेर्यशोवान्नं वेति यास्कः (नि ५-५) शुष्मिणे बलवते । शुष्मं शुष्णमिति बलनामसु पाठात् । एवंभूताय मरुद्गणाय ब्रह्म हविर्लक्षणमन्नमुद्दिश्य प्र गायत । स्तुध्वम् । कीदृशं ब्रह्म । देवत्तं देवैर्दत्तम् । देवतानुग्रहाल्लब्धं ॥ शर्धाय शृधु प्रसहने । शर्धयत्यभिभवतीति शर्धो बलम् । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । घृष्वये । घृष संघर्षे । कृविघृष्वीत्यादिना (उ ४-५६) क्विन्प्रत्ययांतो निपातितः । त्वेषद्युम्नाय त्विष दीप्तौ । पचाद्यच् । त्वेषं दीप्तं द्युम्नं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । देवत्तम् । देवैर्दत्तम् । छांदसोवर्णलोपः । उक्तं च । द्वौ चापरौ वर्णविकारनाशौ । का ६-३-१०९ । इति । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥