श्रवणम्

1.37.11
त्यं चि᳚द्घा दी॒र्घं पृ॒थुं मि॒हो नपा᳚त॒ममृ᳚ध्रम् ।
प्र च्या᳚वयन्ति॒ याम᳚भिः ॥
▶ पदपाठः (Word-by-word)
त्यम् । चि॒त् । घ॒ । दी॒र्घम् । पृ॒थुम् । मि॒हः । नपा᳚तम् । अमृ᳚ध्रम् ।
प्र । च्य॒व॒य॒न्ति॒ । याम᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यं चिद्घ प्रसिद्धो यो मेघस्तमपि मेघं यामभिः स्वकीयगमनैः प्रच्यावयंति । मरुतः प्रकर्षेण गमयंति । कीदृशम् । दीर्घमायामोपेतं पृथुं तिर्यग्विस्तृतं मिहो नपातं सेचनीयस्य जलस्य न पातयितारम् । वृष्टिमकुर्वंतमित्यर्थः । अमृथं केनाप्यहिंस्यं ॥ घ ॥ ऋचि तुनुघेत्यादिना दीर्घः । मिहः मिह सेचने । मेहति सिंचतीति मिट् वृष्टिः । क्विप्चेति क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । नपातम् । न पातयतीति नपात् । नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अमृध्रम् । शृधु मृधु उंदने । मर्धत्युदकेनोनत्तीति मृधः । बहुलवचनादौणादिको रक्प्रत्ययः । सञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा । संग्रामवाचिना मृधशब्देन हिंसा लक्ष्यते । मत्वर्थीयो रः । पूर्ववत्स्वरसमासौ । च्यावयंति । च्युङ् गतौ । णिचि वृद्ध्यावादेशौ । पदकाले ह्रस्वश्छांदसः ॥ ११ ॥