श्रवणम्

1.114.10
आ॒रे ते᳚ गो॒घ्नमु॒त पू᳚रुष॒घ्नं क्षय᳚द्वीर सु॒म्नम॒स्मे ते᳚ अस्तु ।
मृ॒ळा च᳚ नो॒ अधि᳚ च ब्रूहि दे॒वाधा᳚ च न॒ः शर्म᳚ यच्छ द्वि॒बर्हा᳚ः ॥
▶ पदपाठः (Word-by-word)
आ॒रे । ते॒ । गो॒॑घ्नम् । उ॒त । पु॒रु॒ष॒॑घ्नम् । क्षय᳚त्॑वीर । सु॒म्नम् । अ॒स्मे इति᳚ । ते॒ । अ॒स्तु॒ ।
मृ॒ळ । च॒ । नः॒ । अधि᳚ । च॒ । ब्रू॒हि॒ । दे॒व॒ । अध᳚ । च॒ । नः॒ । शर्म᳚ । य॒च्छ॒ । द्वि॒॑बर्हाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे क्षयद्वीर क्षपितसर्वशत्रुजन रुद्र ते त्वदीयं गोघ्नं यद्गोहननं यद्वा गोहननसाधनमायुधम् । उतापि च पुरुषघ्नं पुरुषहननं तत्साधनमायुधं वा तदुभयमारे दूरेऽस्मत्तो विप्रकृष्टदेशे भवतु । अस्मे अस्मासु ते त्वदीयं सुम्नं सुखमस्तु । भवतु । अपि च नोऽस्माकं मृळ । सुखसिद्ध्यर्थं प्रसन्नो भव । हे देव द्योतमान रुद्र नोऽस्मानधि ब्रूहि च । अधिवचनं पक्षपातेन वचनं ब्राह्मणायाधि ब्रूयात् । तै । सम् । २-५-११-९ । इति यथा । अधचाथानंतरं च द्विबर्हा द्वयोः स्थानयोः पृथिव्यामंतरिक्षे च परिवृढः । यद्वा । द्वयोर्दक्षिणोत्तरमार्गयोर्ज्ञानकर्मणोर्वा परिवृढः स्वामी । स त्वं नोऽस्मभ्यं शर्म सुखं यच्छ । देहि ॥ गोघ्नम् । हन हिंसागत्योः । अस्माद्घञर्थे कविधानमिति भावे करणे वा कप्रत्ययः । गमहनेत्युपधालोपः । हो हंतेरिति कुत्वम् । द्विबर्हाः । वृह वृहि वृद्धौ । द्वयोः स्थानयोर्दहते प्रवर्धत इति द्विबर्हाः । असुन् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १० ॥