अवो᳚चाम॒ नमो᳚ अस्मा अव॒स्यवः᳚ शृ॒णोतु᳚ नो॒ हवं᳚ रु॒द्रो म॒रुत्वा᳚न् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
पदपाठः (Word-by-word)
अवो᳚चाम । नमः᳚ । अ॒स्मै॒ । अ॒व॒स्यवः᳚ । शृ॒णोतु᳚ । नः॒ । हव᳚म् । रु॒द्रः । म॒रुत्वा᳚न् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
सायणभाष्यम् (Sayana Commentary)
अवस्यवोऽवोऽन्नं रक्षणं वेच्छंतो वयमवोचाम । एतत्सूक्तरूपं स्तोत्रमवादिष्म । अस्मैरुद्राय नमो नमस्कारोऽस्तु । मरुत्वान्मरुद्भिः स्वकीयै पुत्रैर्युक्तो रुद्रश्च नोऽस्माकं हवमाह्वानं शृणोतु । स्वीकरोतु । यदस्माभिरुक्तं नोऽस्मदीयं तत्सर्वं मित्रादयः षड्देवता ममहंताम् । पूजयंतु । उतशब्दोऽप्यर्थे ॥ अवोचाम । ब्रूञ् वक्तायां वाचि । लुङ् ब्रुवो वचिः । अस्यतिवक्तीत्यादिना च्लेरङादेशः । वच उमित्युमागमः । अवस्यवः । अव रक्षणे । भावेऽसुन् । सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः । हवम् । भावेऽनुपसर्गस्येत्यप् । संप्रसारणं च । मरुत्वान् । झय इति मतुपो वत्वम् । तसौ मत्वर्थ इति भत्वेन पदत्वाभावाज्जश्त्वाभावः ॥ ११ ॥