आ॒रे अ॒स्मद्दैव्यं॒ हेळो᳚ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ᳚णीमहे ॥
पदपाठः (Word-by-word)
आ॒रे । अ॒स्मत् । दैव्य᳚म् । हेळः᳚ । अ॒स्य॒तु॒ । सु॒॑म॒तिम् । इत् । व॒यम् । अ॒स्य॒ । आ । वृ॒णी॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
अवसे रक्षणाय रुद्रं महादेवं नि ह्वयामहे । नितरामाह्वयामः । कीदृशम् । त्वेषं दीप्तं यज्ञसाधं यज्ञस्य साधयितारम् । एष हि यज्ञं स्विष्टं करोति । तथा च तैत्तिरीयके देवा वै यज्ञाद्रुद्रमंतरायन्नित्युपक्रम्याम्मातम् । स्विष्टं वै न इदं भविष्यति यदिमं राधयिष्याम इति तत्स्विष्टकृतः स्विष्टकृत्त्वम् । तै । सं २-६ ८-३ । इति । वंकुम् । कुटलगंतारं कविं क्रांतदर्शिनम् । स च रुद्रो दैव्यं देवस्य द्योतमानस्य संबंधिनं हेळः क्रोधमस्मदारेऽस्मत्तो दूरदेशेऽस्यतु प्रेरयतु । अस्य महादेवस्य सुमतिमित् शोभनामनुग्रहरूपां बुद्धिमेव वयमा वृणीमहे । आभिमुख्येन संभजामहे ॥ यज्ञसाधम् । यज्ञं साधयतीति यज्ञसात् । षिधु संराद्धौ । सिध्यतेरपारलौकिक इत्यात्वम् । यद्वा । राध साध संसिद्धौ । अस्माण्ण्यंतात् क्विप् । वंकुम् । वकि कौटल्ये । औणादिक उप्रत्ययः । नि । ह्वयामहे । निसमुपविभ्यो ह्व इत्यात्मनेपदम् । दैव्यम् । देवाद्यञञौ । पा ४-१-८५-३ । इति प्राग्दीव्यतीयो यञ् । अस्यतु । असु क्षेपणे । दैवादिकः । वृणीमहे । वृङ् संभक्तौ । क्रैय्यादिकः ॥ ४ ॥