हस्ते॒ बिभ्र᳚द्भेष॒जा वार्या᳚णि॒ शर्म॒ वर्म᳚ च्छ॒र्दिर॒स्मभ्यं᳚ यंसत् ॥
पदपाठः (Word-by-word)
हस्ते᳚ । बिभ्र᳚त् । भे॒ष॒जा । वार्या᳚णि । शर्म᳚ । वर्म᳚ । छ॒र्दिः । अ॒स्मभ्य᳚म् । यं॒स॒त् ॥
सायणभाष्यम् (Sayana Commentary)
वराहं वराहारमुत्कृष्टभोजनम् । यद्वा । वराहवद्दृढांगम् । अरुषमारोचमानं कपर्दिनं जटाभिर्युक्तं त्वेषं तेजसा दीप्यमानं रूपं निरूपणीयं वेदांतैरधिगम्यं एवंभूतं रुद्रं नमसा हविर्लक्षणेनान्नेन नमस्कारेण वा दिवो द्युलोकसकाशान्नि ह्वयामहे । नितरामाह्वयामः । स आहूतो रुद्रो हस्ते स्वकीये बाहौ वार्याणि सर्वैर्वरणीयानि भेषजा भैषज्यानि रोगशमनहेतुभूतानि बिभ्रत् धारयन् अस्मभ्यं स्तोतृभ्यः शर्मारोग्यलक्षणं सुखं वर्मायुधानां निवारकं कवचं छर्दिः । गृहनामैतत् । गृहं च यंसत् । प्रयच्छतु ॥ बिभ्रत् । डुभृञ् धारणपोषणयोः । औहोत्यादिकः । लटः शतृ । भृञामिदित्यभ्यासस्येत्वम् । भेषजा । भिषज् चिकित्सायाम् । कंड्वादिः । पचाद्यच् । अतोलोपयलोपौ । सुमंगलभेषजाच्च (पा ४-१-३०) इति निपातनाद्रूपसिद्धिः । शेश्छंदसि बहुलमिति शेर्लोपः । वार्याणि । वृङ् संभक्तौ । ऋहलोर्ण्यत् । ईडवंदेत्याद्युदात्तत्वम् । छर्दिः । उछृदिर् दीप्तिदेवनयोः । छृद्यते दीप्यते सुवर्णादिभिर्धनैः प्रकाश्यत इति छर्दिर्गृहम् । अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः । यंसत् । यम उपरमे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । इतश्च लोप इतीकारलोपः ॥ ५ ॥