श्रवणम्

1.114.7
मा नो᳚ म॒हान्त᳚मु॒त मा नो᳚ अर्भ॒कं मा न॒ उक्ष᳚न्तमु॒त मा न᳚ उक्षि॒तम् ।
मा नो᳚ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः᳚ प्रि॒यास्त॒न्वो᳚ रुद्र रीरिषः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । म॒हान्त᳚म् । उ॒त । मा । नः॒ । अ॒र्भ॒कम् । मा । नः॒ । उक्ष᳚न्तम् । उ॒त । मा । नः॒ । उ॒क्षि॒तम् ।
मा । नः॒ । व॒धीः॒ । पि॒तर᳚म् । मा । उ॒त । मा॒तर᳚म् । मा । नः॒ । प्रि॒याः । त॒न्वः᳚ । रु॒द्र॒ । रि॒रि॒षः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रुद्र नोऽस्माकं मध्ये महांतं वृद्धं मा वधीः । मा हिंसीः । उतापि च नोऽस्माकमर्भकं बालं मा हिंसीः । तथा नोऽस्माकं मध्य उक्षंतं सेक्तारं मध्यवयस्कं युवानं मा वधीः । उतापि च नोऽस्माकमुक्षितं गर्भरूपेण स्त्रीषु निषिक्तमपत्यं मा वधीः । तथा नोऽस्माकं पितरं जनकं मा वधीः । उतापि च मातरं जननीं मा वधीः । तथा नोऽस्माकं प्रियाः स्नेहविषयास्तन्वः शरीराणि तनूषु भवाः प्रजा वा हे रुद्र मा रिरिषः । मा हिंसीः ॥ वधीः । हंतेर्माङी लुङि चेति वधादेशः । स चादंतः । सिच इट् । अतो लोपस्य स्थानिवद्भावाद्वृद्ध्यभावः । रिरिषः । रिष हिंसायाम् । ण्यंताल्लुङि चङि णिलोपोपधाह्रस्वत्वादीनि । छांदसः पदकालीनोऽभ्यासह्रस्वः ॥ ७ ॥