भ॒द्रा हि ते᳚ सुम॒तिर्मृ᳚ळ॒यत्त॒माथा᳚ व॒यमव॒ इत्ते᳚ वृणीमहे ॥
पदपाठः (Word-by-word)
भ॒द्रा । हि । ते॒ । सु॒॑मतिः । मृ॒ळ॒यत्॑त᳚मा । अथ᳚ । व॒यम् । अव᳚ । इत् । ते॒ । वृ॒णी॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
देवसुवां हविःषु रुद्रस्य पशुपतेर्याग उप ते स्तोमानित्यादिके याज्यानुवाक्ये । सूत्रितं च । उप ते स्तोमान् पसुपा इवाकरमिति द्वे (आ ४-११) इति ॥
हे रुद्र स्तोमान् स्तुतिरूपान्मंत्रान् ते तुभ्यमुपाकरम् । उपाकरोमि । समर्पयामि । तत्र दृष्टांतः । पशुपा इव । यथा पशूनां पालयिता गोपः प्रातःकाले स्वस्मै समर्पितान्पशून् सायंकाले स्वामिभ्यः प्रत्यर्पयति एवं त्वत्सकाशाल्लब्धान् स्तुतिरूपान्मंत्रान् स्तुतिसाधनतया तुभ्यं प्रत्यर्पयामीत्यर्थः । हे मरुतां पितर्मरुत्संज्ञानां देवानामुत्पादक रुद्र नोऽस्मभ्यं सुम्नं सुखं रास्व । देहि । अपि च ते त्वदीया सुमतिः कल्याणी बुद्धिर्मृळयत्तमातिशयेन सुखयितृतमा । अत एव भद्रा भजनीया हि । यस्मादेवं तस्मादथानंतरं वयं ते त्वदीयमवो रक्षणं वृणीमहे । संभजामहे ॥ अकरम् । छंदसि लुङ् लङ् लिट इति वर्तमाने लुङ् । कृमृदृरुहिभ्य इति च्लेरङादेशः । ऋदृशोऽङि गुणः । पितर्मरुताम् । परमपि छंदसीति परस्याः षष्ठ्याः पूर्वामंत्रितानुप्रवेशे सत्यामंत्रितस्य चेति पदद्वयमप्यनुदात्तम् । अस्मे । सुपां सुलुगिति चतुर्थीबहुवचनस्य शेआदेशः । मृळयत्तमा । मृड सुखने । अस्माण्ण्यंताल्लटः शतृ । तस्य छंदस्युभयथेत्यार्धधातुकाल्लसार्वधातुकानुदात्तत्वाभावे प्रत्ययस्वरः शिष्यते ॥ ९ ॥