श्रवणम्

1.111.3 समानपद
आ त᳚क्षत सा॒तिम॒स्मभ्य᳚मृभवः सा॒तिं रथा᳚य सा॒तिमर्व᳚ते नरः ।
सा॒तिं नो॒ जैत्रीं॒ सं म᳚हेत वि॒श्वहा᳚ जा॒मिमजा᳚मिं॒ पृत᳚नासु स॒क्षणि᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । त॒क्ष॒त॒ । सा॒तिम् । अ॒स्मभ्य᳚म् । ऋ॒भ॒वः॒ । सा॒तिम् । रथा᳚य । सा॒तिम् । अर्व᳚ते । न॒रः॒ ।
सा॒तिम् । नः॒ । जैत्री᳚म् । सम् । म॒हे॒त॒ । वि॒श्वहा᳚ । जा॒मिम् । अजा᳚मिम् । पृत᳚नासु । स॒क्षणि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरो यज्ञस्य नेतार ऋभवः अस्मभ्यमनुष्ठातृभ्यः सातिं संभजनीयमन्नं धनं वा तक्षत । आ समंतात्कुरुत । तथास्मदीयाय रथाय रंहणशीलाय पुत्रादये रथायैव वा सातिं संभजनीयं धनमा तक्षत । तथार्वतेऽश्वाय सातिं संभजनीयमन्नं धनं वाश्वयोग्यमा तक्षतेत्येव । किंच विश्वहा सर्वेष्वहस्सु नोऽस्माकं जैत्रीं जयशीलामपरिमितत्वेन सर्वाधिकां सातिं संभजनीयं धनं सं महेत । सर्वो जनः सम्यक् पूजयतु । वयं च पृतनासु संग्रामेषु जामिं सहजातमजामिं सहानुत्पन्नं शत्रुं वा सक्षणिमस्मानभिभवंतं युष्मत्प्रसादादभिभवेमेति शेषः ॥ सातिम् । ऊतियूतिजूतिसातीत्यादिना क्तिन उदात्तत्वम् । महेत । मह पूजायाम् । सक्षणिम् । षह अभिभवे । औणादिकः सनिप्रत्ययः । ढत्वकत्वषत्वानि ॥ ३ ॥