श्रवणम्

1.111.5
ऋ॒भुर्भरा᳚य॒ सं शि᳚शातु सा॒तिं स᳚मर्य॒जिद्वाजो᳚ अ॒स्मा{4} अ᳚विष्टु ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
ऋ॒भुः । भरा᳚य । सम् । शि॒शा॒तु॒ । सा॒तिम् । स॒म॒र्य॒॑जित् । वाजः᳚ । अ॒स्मान् । अ॒वि॒ष्टु॒ ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋभुः प्रथमोऽस्माकं सातिं संभजनीयं धनं भराय संग्रामार्थं सं शिशातु । सम्यक् । तिक्ष्णीकरोतु । संग्रामोचितं धनमस्मभ्यं प्रयच्छत्वित्यर्थः । तथा समर्यजित् । मर्या मनुष्याः । तैः सह वर्तत इति समर्यः संग्रामः । तत्र शत्रूणां जेता वाज एतत्संज्ञस्तृतीयश्चास्मान् स्तोतॄनविष्टु । अवतु । संग्रामाद्रक्षत्वित्यर्थः । यदनेन सूक्तेन प्रार्थितमस्मदीयं तन्मित्रादयो ममहंताम् । पूजयंतु ॥ शिशातु । शो तनूकरणे । बहुलं छंदसीति विकरणस्य श्लुः । आदेच इत्यात्वम् । द्विर्भावः । ह्रस्वत्वे बहुलं छंदसीत्यभ्यासस्येत्वम् । अविष्टु । अवतेर्लोट सिब्बहुलं लेटीति बहुलग्रहणात्सिप् । इडागमः । षत्वष्टुत्वे ॥ ५ ॥