श्रवणम्

1.111.2 समानपद
आ नो᳚ य॒ज्ञाय᳚ तक्षत ऋभु॒मद्वय॒ः क्रत्वे॒ दक्षा᳚य सुप्र॒जाव᳚ती॒मिष᳚म् ।
यथा॒ क्षया᳚म॒ सर्व᳚वीरया वि॒शा तन्न॒ः शर्धा᳚य धासथा॒ स्वि᳚न्द्रि॒यम् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । य॒ज्ञाय᳚ । त॒क्ष॒त॒ । ऋ॒भु॒॑मत् । वयः᳚ । क्रत्वे᳚ । दक्षा᳚य । सु॒॑प्र॒जाव᳚तीम् । इष᳚म् ।
यथा᳚ । क्षया᳚म । सर्व᳚॑वीरया । वि॒शा । तत् । नः॒ । शर्धा᳚य । धा॒स॒थ॒ । सु । इ॒न्द्रि॒यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवो नोऽस्माकं यज्ञाय यज्ञार्थं ऋभुमदुरुभासनयुक्तं वयो हविर्लक्षणमन्नमा तक्षत । आ समंतादुत्पादयत । एतदेव विव्रियते । क्रत्वे क्रतवेऽस्मदीयाय कर्मणे दक्षाय बलाय च । तादर्थ्ये चतुर्थी । एतदुभयार्थं सुप्रजावतीं शोभनाभिः पुत्रपौत्रादिलक्षणाभिः प्रजाभिर्युक्तामिषमन्नमा तक्षतेति शेषः । अपि च सर्ववीरया सर्वैर्वीरैः पुतादिभिरुपेतया विशा प्रजया सह यथा येन प्रकारेण क्षयाम सुखेन निवसाम तत्तादृशमिंद्रियम् । धननामैतत् । धनं नोऽस्मभ्यं शर्धाय बलार्थं सु धासथ । सुष्ठु धत्त । प्रयच्छतेत्यर्थः ॥ ऋभुमत् । उरु भातीति नैरुक्तव्युत्पत्त्या ऋभुशब्दः प्रकाशमात्रवाची । ह्रस्वनुड् भ्यां मतुबिति मतुप उदात्तत्वम् । क्रत्वे । जसादिषु छंदसि वा वचनमिति घेर्ङितीति गुणाभावे यणादेशः । क्षयाम । क्षिनिवासगत्योः । व्यत्ययेन शप् । धासथा । धाञो लेट्यडागमः । सिब्बहुलं लेटीति सिप् । अन्येषामपि दृश्यत इति संहितायां दीर्घत्वं ॥ २ ॥