श्रवणम्

1.108.11
यदि᳚न्द्राग्नी दि॒वि ष्ठो यत्पृ᳚थि॒व्यां यत्पर्व᳚ते॒ष्वोष᳚धीष्व॒प्सु ।
अत॒ः परि᳚ वृषणा॒वा हि या॒तमथा॒ सोम᳚स्य पिबतं सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्रा॒ग्नी॒ इति᳚ । दि॒वि । स्थः । यत् । पृ॒थि॒व्याम् । यत् । पर्व᳚तेषु । ओष᳚धीषु । अ॒प्॑सु ।
अतः᳚ । परि᳚ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ᳚ । सोम᳚स्य । पि॒ब॒त॒म् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी दिवि द्युलोके यद्यदि स्थः भवथः । यदि वा पृथिव्यां भूलोके यदि वा पर्वतेषु मेर्वादिषु मेघेषु वा । तथा ओषधीषु तिलमाषव्रीह्यादिष्वप्सूदकेषु चानुग्राहकतयायदि वा स्थः । हे कामाभिवर्षकौ युवामतः सर्वस्मात्स्थानादागच्छतम् । आगत्य चाभिषुतं सोमं पिबतं ॥ पृथिव्याम् । उदात्तयण इति विभक्तेरुदात्तत्वम् । ओषधीषु । ओषः पाक आसु धीयत इति ओषधयः । कर्मण्यधिकरणे चेति किप्रत्ययः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । तच्च घञंतमाद्युदात्तम् । ओषधेश्च विभक्तावप्रथमायामिति दीर्घः ॥ ११ ॥