श्रवणम्

1.108.7
यदि᳚न्द्राग्नी॒ मद᳚थ॒ः स्वे दु᳚रो॒णे यद्ब्र॒ह्मणि॒ राज᳚नि वा यजत्रा ।
अत॒ः परि᳚ वृषणा॒वा हि या॒तमथा॒ सोम᳚स्य पिबतं सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्रा॒ग्नी॒ इति᳚ । मद᳚थः । स्वे । दु॒रो॒णे । यत् । ब्र॒ह्मणि᳚ । राज᳚नि । वा॒ । य॒ज॒त्रा॒ ।
अतः᳚ । परि᳚ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ᳚ । सोम᳚स्य । पि॒ब॒त॒म् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजत्रा यष्वव्यौ हे इंद्राग्नी स्वे दुरोणे स्वकीये गृहे निवासस्थाने यद्यदि मदथः हृष्यथः । यद्यदि वा ब्रह्मणि ब्राह्मणेऽन्यस्मिन्यजमाने हविःस्वीकरणायागत्य हृष्यथः । यदि वा राजनि क्षत्रिये युद्धे सहाय्यं कर्तुमागत्य हृष्यथः । अतः परि परितोऽस्मात्सर्वस्मात्स्थानात् हे वृषणौ कामानां वर्षिताराविंद्राग्नी आ यातं हि । आगच्छतमेव । औदासीन्यं मा कार्ष्वम् । अन्यत्पूर्ववत् ॥ मदथः । मदी हर्षे । व्यत्ययेन शप् । यजत्रा । अमिनक्षीत्यादिना यजतेः कर्मण्यत्रन् । सुपां सुलुगिति विभक्तेराकारः ॥ ७ ॥