श्रवणम्

1.90.3
ते अ॒स्मभ्यं॒ शर्म᳚ यंसन्न॒मृता॒ मर्त्ये᳚भ्यः ।
बाध᳚माना॒ अप॒ द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
ते । अ॒स्मभ्य᳚म् । शर्म᳚ । यं॒स॒न् । अ॒मृताः᳚ । मर्त्ये᳚भ्यः ।
बाध᳚मानाः । अप᳚ । द्विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमृता अमरणधर्माणस्ते विश्वे देवा मर्त्येभ्यो मरणधर्मभ्योऽस्मभ्यमनुष्ठातृभ्यः शर्मामृतलक्षणं सुखं यंसन् । यच्छंतु । प्रयच्छंतु । किं कुर्वंतः । द्विषोऽस्मदीयान्पापलक्षणान् शत्रूनपबाधमानाः विनाशं प्रापयंतः ॥ यंसन् । यम उपरमे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । अमृताः । मृतं मरणं येषां नास्तीत्यमृताः । नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वं ॥ ३ ॥