श्रवणम्

1.90.7
मधु॒ नक्त᳚मु॒तोषसो॒ मधु᳚म॒त्पार्थि᳚वं॒ रजः᳚ ।
मधु॒ द्यौर᳚स्तु नः पि॒ता ॥
▶ पदपाठः (Word-by-word)
मधु᳚ । नक्त᳚म् । उ॒त । उ॒षसः᳚ । मधु᳚॑मत् । पार्थि᳚वम् । रजः᳚ ।
मधु᳚ । द्यौः । अ॒स्तु॒ । नः॒ । पि॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

नक्तं रात्रिर्नोऽस्माकं मधु मधुमती माधुर्योपेतफलप्रदा भवतु । उतापि चोषस उषःकालोपलक्षितान्यहानि च मधुमंति भवंतु । पार्थिवं रजः पृथिव्याः संबंधी लोकोऽस्माकं मधुमत् माधुर्यविशिष्टफलयुक्तो भवतु । पिता दृष्टिप्रदानेन सर्वेषां पालयिता द्यौर्द्युलोकोऽपि मधु मधुयुक्तो भवतु ॥ पार्थिवम् । पृथिव्या ञाञौ । पा ४-१-८५-२ । इति प्राग्दीवृतीयोऽञ्प्रत्ययः । रजः । रजःशब्दो लोकवाची । लोका रजांस्युच्यंते (नि ४-१९) इति यास्कः । रजंत्यस्मिञ्चना इति रजः । असुनि रजकरजनरजःसूपसंख्यानम् । का ६-४-२४-४ । इति रंजेर्नलोपः ॥ ७ ॥