मधु᳚मान्नो॒ वन॒स्पति॒र्मधु᳚मा{4} अस्तु॒ सूर्य᳚ः ।
माध्वी॒र्गावो᳚ भवन्तु नः ॥
माध्वी॒र्गावो᳚ भवन्तु नः ॥
पदपाठः (Word-by-word)
मधु᳚॑मान् । नः॒ । वन॒स्पतिः᳚ । मधु᳚॑मान् । अ॒स्तु॒ । सूर्यः᳚ ।
माध्वीः᳚ । गावः᳚ । भ॒व॒न्तु॒ । नः॒ ॥
माध्वीः᳚ । गावः᳚ । भ॒व॒न्तु॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
नोऽस्माकं वनस्पतिर्वनानां पालयिता यूपाभिमानी देवो मधुमान् माधुर्योपेतफलवानस्तु । तादृशं फलमस्मभ्यं प्रयच्छत्वित्यर्थः । सूर्यः सर्वस्य प्रेरकः सविता च मधुमानस्तु । गावोऽग्निहोत्राद्यर्था धेनवश्च नोऽस्माकं माध्वीर्माधुर्योपेतेन पयसा युक्ता भवंतु ॥ वनस्पतिः वनानां पतिर्वनस्पतिः । पारस्करादित्वात्सुट् । वनपतिशब्दावाद्युदात्तौ । उभे वनस्पत्यादिषु युगपदिति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं ॥ ८ ॥