श्रवणम्

1.191.15
इ॒य॒त्त॒कः कु᳚षुम्भ॒कस्त॒कं भि᳚न॒द्म्यश्म᳚ना ।
ततो᳚ वि॒षं प्र वा᳚वृते॒ परा᳚ची॒रनु᳚ सं॒वतः᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒य॒त्त॒कः । कु॒षु॒म्भ॒कः । त॒कम् । भि॒न॒द्मि॒ । अश्म᳚ना ।
ततः᳚ । वि॒षम् । प्र । व॒वृ॒ते॒ । परा᳚चीः । अनु᳚ । स॒म्॑वतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयत्तकःकुत्सितेयत्तः अल्पप्रमाणइत्यर्थः कुषुंभकःकुंपृथ्वीं सुंभति विलिखतीति सर्पाणांकुत्सितं- सुंभयितानिग्रहीतावाकुषुम्भकोनकुलः सतेविषंहरत्वितिशेषः यदिनतथासकरोति तकंकुत्सितंतन्नकु- लमश्मनाभिनद्मि विदारयामि विषनिर्हरणप्रयोगे यावद्विषापगमंतंपाषाणानुघातमनुतिष्ठन्तितद्वि- दः तदिदमत्रोक्तं ततः एवं प्र्योगेसति विषंप्रवावृते विषावृताद्देहाद्विषंप्रवर्तते निर्गच्छतु काःप्रति उच्यते पराचीः परागञ्चनवतीरतिदूरगाः संवतः संविभागवतीर्दिशः अनु अनुलक्षीक्रुत्यदिगन्तं प्रति- गच्छतु नमांप्रतिगच्छत्वित्यर्थः ॥ १५ ॥