श्रवणम्

1.191.11
इ॒य॒त्ति॒का श᳚कुन्ति॒का स॒का ज᳚घास ते वि॒षम् ।
सो चि॒न्नु न म᳚राति॒ नो व॒यं म᳚रामा॒रे अ᳚स्य॒ योज᳚नं हरि॒ष्ठा मधु᳚ त्वा मधु॒ला च᳚कार ॥
▶ पदपाठः (Word-by-word)
इ॒य॒त्ति॒का । श॒कु॒न्ति॒का । स॒का । ज॒घा॒स॒ । ते॒ । वि॒षम् ।
सो इति᳚ । चि॒त् । नु । न । म॒रा॒ति॒ । नो इति᳚ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज᳚नम् । ह॒रि॒॑स्थाः । मधु᳚ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयत्तिकाइयत्तांकुर्वाणाइयत्तावतीवावालेत्यर्थः शकुन्तिका शकुन्तः शकुनः तस्यस्त्रीतां कपिञ्च- लीमाहुः सकासातेतवविषंजघास भक्षितवती साविषहर्त्रीतिप्रसिद्धा सोचित् साउइतिनिपात समु- दायएकंपदं सापिशकुन्तिकानम्रियते नित्यप्रतिपक्षत्वाद्विषस्य शिष्टंव्याख्यातचरं अनेनविद्यायांयद्दे- हावृतंविषंतस्यशकुनेभ्यआदित्यायचप्रदानमस्तीत्युक्तंभवति ॥ ११ ॥