श्रवणम्

1.191.10
सूर्ये᳚ वि॒षमा स᳚जामि॒ दृतिं॒ सुरा᳚वतो गृ॒हे ।
सो चि॒न्नु न म᳚राति॒ नो व॒यं म᳚रामा॒रे अ᳚स्य॒ योज᳚नं हरि॒ष्ठा मधु᳚ त्वा मधु॒ला च᳚कार ॥
▶ पदपाठः (Word-by-word)
सूर्ये᳚ । वि॒षम् । आ । स॒जा॒मि॒ । दृति᳚म् । सुरा᳚॑वतः । गृ॒हे ।
सः । चि॒त् । नु । न । म॒रा॒ति॒ । नो इति᳚ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज᳚नम् । ह॒रि॒॑स्थाः । मधु᳚ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदित्यमण्डलेचतुर्थेनाङ्गुलिनाविषमादायमधुक्रुत्ययोजयित्वानिर्विषोभवेदितियदेतद्विषविद्या- यामुक्तं तदिदमत्रोच्यते—अहंविषावृतोगस्त्यः सूर्येसर्वस्यप्रेरयितरिमधुविद्यारूपेसूर्यमण्डलेविष- मावृत्यवर्तमानंसूर्येआसजामिआसक्तंकरोमि तत्रदृष्टान्तः—सुरावतोगृहेसुरानिर्मातृसदने दृतिमिव चर्ममयसुरापात्रमिव यथातत्कर्तुर्नदोषायभवति तद्वद्विषमादित्यस्यनबाधकमित्यर्थः सोचित् चि- त्पूजायां नुःप्रसिद्धौ पूज्यःससूर्यःखलुनमराति नम्रियते नोवयंमराम तदनुग्रहात्तत्रैवविषस्ययोजि- तत्वाद्बयमपिनम्रियामहै उभयोरमरणेकारणमाह—हरिष्ठाः हरयोश्वाः तेषुस्थितआदित्यः आरेदूरे- अस्यविषस्ययोजनंप्राणंचकार तदेवोच्यते हेविषत्वात्वांमधुअमृतं चकार विषस्यविषभावंदूरेपनो- द्यामृतीचकारेति एषैवमधुलामधुदात्रीनिर्विषीकर्त्रीमधुविद्या यदेतदादित्यस्यमण्डलेविषयोजनं तेनचामृतीकरणंयदस्तिएषामधुविद्या ॥ १० ॥