श्रवणम्

1.191.3
श॒रास॒ः कुश᳚रासो द॒र्भासः᳚ सै॒र्या उ॒त ।
मौ॒ञ्जा अ॒दृष्टा᳚ वैरि॒णाः सर्वे᳚ सा॒कं न्य᳚लिप्सत ॥
▶ पदपाठः (Word-by-word)
श॒रासः᳚ । कुश᳚रासः । द॒र्भासः᳚ । सै॒र्याः । उ॒त ।
मौ॒ञ्जाः । अ॒दृष्टाः᳚ । वै॒रि॒णाः । सर्वे᳚ । सा॒कम् । नि । अ॒लि॒प्स॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्यांश्चविषहेतूनाह शरासः शरावेणुदण्डसदृशाअन्तश्छिद्रास्तृणविशॆषाः कुशरासः कुत्सितश- राः अल्पच्छिद्राः शरसदृशाः तृणविशेषाः दर्भासोदर्भाः कुशाः सैर्याः तटाकादिप्रान्तोद्भवाः तृणवि- शेषाः अश्ववालाइतिप्रसिद्धाः उतापिचमौञ्चाः मुञ्चाः प्रसिद्धाः बैरिणाः वीरणप्रकाराः एतेषुवर्तमा- नाः अदृष्टाः उक्तरूपाः सर्वेविषधराः साकंमिलित्वा न्यलिप्सत निलिपन्तिस्म ॥ ३ ॥