उत्पु॒रस्ता॒त्सूर्य᳚ एति वि॒श्वदृ᳚ष्टो अदृष्ट॒हा ।
अ॒दृष्टा॒न्त्सर्वा᳚ञ्ज॒म्भय॒न्त्सर्वा᳚श्च यातुधा॒न्य᳚ः ॥
अ॒दृष्टा॒न्त्सर्वा᳚ञ्ज॒म्भय॒न्त्सर्वा᳚श्च यातुधा॒न्य᳚ः ॥
पदपाठः (Word-by-word)
उत् । पु॒रस्ता᳚त् । सूर्यः᳚ । ए॒ति॒ । वि॒श्व॑दृ᳚ष्टः । अ॒दृ॒ष्ट॒॑हा ।
अ॒दृष्टा᳚न् । सर्वा᳚न् । ज॒म्भय᳚न् । सर्वाः᳚ । च॒ । या॒तु॒॑धा॒न्यः᳚ ॥
अ॒दृष्टा᳚न् । सर्वा᳚न् । ज॒म्भय᳚न् । सर्वाः᳚ । च॒ । या॒तु॒॑धा॒न्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
असौसूर्यः पुरस्तात् पूर्वस्यांदिशिउत् उदेति कीदृशःसः विश्वदृष्टः विश्वेद्रष्टव्यायस्यसतादृशः अदृ- ष्टहादृष्टाविषविशेषाः विषधरविशेषावा तेषांहन्ता यद्वा अदृष्टंदर्शनमज्ञानंअन्धकारस्तस्यहन्ता सूर्ये- उदितेसतिसर्वेविषधराः विषाणिवापलायन्ते किंकुर्वन्नुदेतीतिचेदुच्यते—सर्वान् अदृष्टान्अद्रष्टव्यान्- विषराक्षसादीन् जंभयन् हिंसयन् तथासर्वायातुधान्यश्चयातवोयातनाः तीव्रवेदनाः तासांधात्रीरु- त्पादयित्रीर्महोरगीराक्षसीर्वाजंभयन् पुरस्तादुदेति अतोस्मत्तोनिजस्यतेतिसंबन्धः ॥ ८ ॥