अ॒दृष्टा᳚न्हन्त्याय॒त्यथो᳚ हन्ति पराय॒ती ।
अथो᳚ अवघ्न॒ती ह॒न्त्यथो᳚ पिनष्टि पिंष॒ती ॥
अथो᳚ अवघ्न॒ती ह॒न्त्यथो᳚ पिनष्टि पिंष॒ती ॥
पदपाठः (Word-by-word)
अ॒दृष्टा᳚न् । ह॒न्ति॒ । आ॒॑य॒ती । अथो॒ इति᳚ । ह॒न्ति॒ । प॒रा॒॑य॒ती ।
अथो॒ इति᳚ । अ॒व॒॑घ्न॒ती । ह॒न्ति॒ । अथो॒ इति᳚ । पि॒न॒ष्टि॒ । पिं॒ष॒ती ॥
अथो॒ इति᳚ । अ॒व॒॑घ्न॒ती । ह॒न्ति॒ । अथो॒ इति᳚ । पि॒न॒ष्टि॒ । पिं॒ष॒ती ॥
सायणभाष्यम् (Sayana Commentary)
अनेनविषघ्न्योषधिः स्तूयते आयतीविषदष्टस्यसकाशमागछन्ती विषनिर्हरणसाधनौषधिः अदृ- ष्टान् अदृश्यमानान् विषधरान् हन्तिहिनस्ति अथोअपिच परायतीपरागच्छन्ती संमार्जनसमये वा- क् प्रवृत्ताहन्तिनाशयतिजलचरविषधरान् अथोअपिच अवघ्नती कर्मणिकर्तृप्रत्ययः अवहन्यमानौष- धिः स्वगन्धेनहन्तिबहुविषान् यद्वा काचिदोषधिः दंशकान्मारयत्येव अथोअपिच पिंषतीपेषणंकर्त्री- दृषत् पिष्यमाणावौषधिः पिनष्टि चूर्णीकरोत्यल्पविषान् अथवासर्वेषुवाक्येष्वविशेषेणसर्वविषका- रिणांनाशउक्तः ॥ २ ॥