श्रवणम्

1.191.4
नि गावो᳚ गो॒ष्ठे अ᳚सद॒न्नि मृ॒गासो᳚ अविक्षत ।
नि के॒तवो॒ जना᳚नां॒ न्य१॒᳚दृष्टा᳚ अलिप्सत ॥
▶ पदपाठः (Word-by-word)
नि । गावः᳚ । गो॒॑स्थे । अ॒स॒द॒न् । नि । मृ॒गासः᳚ । अ॒वि॒क्ष॒त॒ ।
नि । के॒तवः᳚ । जना᳚नाम् । नि । अ॒दृष्टाः᳚ । अ॒लि॒प्स॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गावोगोष्ठेन्यसदन् निषीदन्ति मृगासोमृगाः न्यविक्षत निविष्टाः स्वस्वस्थानउपरताः जनानांप्रा- णिनांकेतवः प्रज्ञानानि उपसर्गश्रुतेर्योग्यक्रियाध्याहारः नीचान्यभवन् एतस्मिन् समयेअदृष्टाअदृश्य- मानरूपाः सन्तोन्यलिप्सत निलिंपन्तिविशेषेण ॥ ४ ॥