उद᳚पप्तद॒सौ सूर्य᳚ः पु॒रु विश्वा᳚नि॒ जूर्व᳚न् ।
आ॒दि॒त्यः पर्व᳚तेभ्यो वि॒श्वदृ᳚ष्टो अदृष्ट॒हा ॥
आ॒दि॒त्यः पर्व᳚तेभ्यो वि॒श्वदृ᳚ष्टो अदृष्ट॒हा ॥
पदपाठः (Word-by-word)
उत् । अ॒प॒प्त॒त् । अ॒सौ । सूर्यः᳚ । पु॒रु । विश्वा᳚नि । जूर्व᳚न् ।
आ॒दि॒त्यः । पर्व᳚तेभ्यः । वि॒श्व॑दृ᳚ष्टः । अ॒दृ॒ष्ट॒॑हा ॥
आ॒दि॒त्यः । पर्व᳚तेभ्यः । वि॒श्व॑दृ᳚ष्टः । अ॒दृ॒ष्ट॒॑हा ॥
सायणभाष्यम् (Sayana Commentary)
असौपुरस्ताद्दृश्यमानःसूर्यः सर्वस्यप्रेरकआदित्यः उदपप्तत् ऊर्ध्वंगच्छति पततेर्लुङि पुमागमेरूपं किंकुर्वन् विश्वानिबहूनिविषाणि पुरुप्रभूतंजूर्वन् हिंसन् कीदृशोसौ पर्वतेभ्यः पर्ववद्भ्यः प्राणिभ्यः ते- षामुपकाराय आदित्यः विषोदकादीनामदनशीलः विश्वदृष्टः विश्वंदृष्टंयेनतादृशः अदृष्टहा अदृष्टानां- विषविशेषणांहन्ता एवंमहानुभावः सूर्यऊर्ध्वमारोहति अतोविषशङ्कानकार्या ॥ ९ ॥