ए॒त उ॒ त्ये प्रत्य᳚दृश्रन्प्रदो॒षं तस्क᳚रा इव ।
अदृ᳚ष्टा॒ विश्व᳚दृष्टा॒ः प्रति᳚बुद्धा अभूतन ॥
अदृ᳚ष्टा॒ विश्व᳚दृष्टा॒ः प्रति᳚बुद्धा अभूतन ॥
पदपाठः (Word-by-word)
ए॒ते । ऊं॒ इति᳚ । त्ये । प्रति᳚ । अ॒दृ॒श्र॒न् । प्र॒॑दो॒षम् । तस्क᳚राः॑इव ।
अदृ᳚ष्टाः । विश्व᳚॑दृष्टाः । प्रति᳚॑बुद्धाः । अ॒भू॒त॒न॒ ॥
अदृ᳚ष्टाः । विश्व᳚॑दृष्टाः । प्रति᳚॑बुद्धाः । अ॒भू॒त॒न॒ ॥
सायणभाष्यम् (Sayana Commentary)
त्येतेएतेसर्पाः प्रत्यदृश्रन् प्रतिदृश्यन्ते रात्रौश्वासादिलिङ्गेन उःपूरणः यद्वा तेरात्रौहन्तारः दिवा- एतेप्रतिदृश्यन्ते तत्रदृष्टान्तः—प्रदोषंरात्रिर्दोषारात्रिंप्रतितमसाभिभूतासुरात्रिषुतस्कराइव हिंसका- श्चोरादृश्यन्ते तथातद्वत् कीदृशास्ते अदृष्टाः अपरिदृश्यमानाः विश्वदृष्टाः विश्वंदृष्टंयैस्तेतादृशाः प्रति- दृश्यन्ते अतोहेनराः प्रतिबुद्धाअभूतन भवत ॥ ५ ॥