श्रवणम्

1.191.13
न॒वा॒नां न᳚वती॒नां वि॒षस्य॒ रोपु᳚षीणाम् ।
सर्वा᳚सामग्रभं॒ नामा॒रे अ᳚स्य॒ योज᳚नं हरि॒ष्ठा मधु᳚ त्वा मधु॒ला च᳚कार ॥
▶ पदपाठः (Word-by-word)
न॒वा॒नाम् । न॒व॒ती॒नाम् । वि॒षस्य᳚ । रोपु᳚षीणाम् ।
सर्वा᳚साम् । अ॒ग्र॒भ॒म् । नाम᳚ । आ॒रे । अ॒स्य॒ । योज᳚नम् । ह॒रि॒॑स्थाः । मधु᳚ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नवानांनवतीनांनवाधिकानांनवतिसंख्याकानांनदीनां पुनःकीदृशीनां विषस्यास्मद्भ्यापकस्यस- र्वस्यविषस्यरोपुषीणां लोपयित्रीणांछेन्त्रीणांसर्वासामुक्तानांगङ्गादिनदीनांनामाग्रभं गृह्णामि सं- कीर्तयामि ग्रहेश्छान्दसेलुङि छान्दसश्च्लेर्लुक् हृग्रहोर्भः अस्ययोजनमित्यादिगतम् ॥ १३ ॥