द्यौर्व᳚ः पि॒ता पृ᳚थि॒वी मा॒ता सोमो॒ भ्रातादि᳚ति॒ः स्वसा᳚ ।
अदृ᳚ष्टा॒ विश्व᳚दृष्टा॒स्तिष्ठ᳚ते॒ळय᳚ता॒ सु क᳚म् ॥
अदृ᳚ष्टा॒ विश्व᳚दृष्टा॒स्तिष्ठ᳚ते॒ळय᳚ता॒ सु क᳚म् ॥
पदपाठः (Word-by-word)
द्यौः । वः॒ । पि॒ता । पृ॒थि॒वी । मा॒ता । सोमः᳚ । भ्राता᳚ । अदि᳚तिः । स्वसा᳚ ।
अदृ᳚ष्टाः । विश्व᳚॑दृष्टाः । तिष्ठ᳚त । इ॒ळय᳚त । सु । क॒म् ॥
अदृ᳚ष्टाः । विश्व᳚॑दृष्टाः । तिष्ठ᳚त । इ॒ळय᳚त । सु । क॒म् ॥
सायणभाष्यम् (Sayana Commentary)
अतः परंविषचिकित्सा तत्रतावत् हेसर्पाः वोयुष्माकंद्यौः पिता पृथिवीमातासोमोभ्राता अदिति- र्देवमातास्वसा एवंमहानुभावामहोरगाअदृष्टाः अन्यैरदृश्यमानरूपाः स्वयंतुविश्वदृष्टाः सर्वस्यद्रष्टा- रोयूयंतिष्ठतस्वस्थाने मांप्रतिमागच्छत सुसुतरांकंसुखंयथातथा इलयत ईरयतगच्छत सोमशब्देन- सोमाधारोद्युलोकउच्यते पृथिव्यन्तरिक्षद्युस्थानस्थाःसर्पाःस्वस्वस्थानंप्राप्नुत अस्मद्बाधांमाकुरुतेत्य- र्थः ॥ ६ ॥