ये अंस्या॒ ये अङ्ग्या᳚ः सू॒चीका॒ ये प्र᳚कङ्क॒ताः ।
अदृ᳚ष्टा॒ः किं च॒नेह व॒ः सर्वे᳚ सा॒कं नि ज᳚स्यत ॥
अदृ᳚ष्टा॒ः किं च॒नेह व॒ः सर्वे᳚ सा॒कं नि ज᳚स्यत ॥
पदपाठः (Word-by-word)
ये । अंस्याः᳚ । ये । अङ्ग्याः᳚ । सू॒चीकाः᳚ । ये । प्र॒॑क॒ङ्क॒ताः ।
अदृ᳚ष्टाः । किम् । च॒न । इ॒ह । वः॒ । सर्वे᳚ । सा॒कम् । नि । ज॒स्य॒त॒ ॥
अदृ᳚ष्टाः । किम् । च॒न । इ॒ह । वः॒ । सर्वे᳚ । सा॒कम् । नि । ज॒स्य॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
येअंस्याः अंसार्हाः अंसगाः अंसेभवाः अंसाभ्यांखादन्तोवा तथायेअंग्याः अङ्गाः अङ्गेनशरीरेण- हन्तारोवालूतिकादयः सूचीकाः सूचीदृशः पुच्छरोमाणोवृश्चिकाद्याः येचप्रकङ्कताः प्रकृष्टविषाः प्र- कृष्टगामिनोवामहोरगाः अदृष्टाः अदृश्यमानाः किञ्चन यत्किंचित् सर्पजातमस्ति इहास्मिन्समीपेवो- युष्माकंकिमस्ति अतःयूयंसर्वेसाकंसहनिजस्यत नितरांजस्यत मुञ्चतास्मान् जसुमोक्षणे दैवादिकः ॥ ७ ॥