श्रवणम्

1.191.14
त्रिः स॒प्त म᳚यू॒र्य᳚ः स॒प्त स्वसा᳚रो अ॒ग्रुवः᳚ ।
तास्ते᳚ वि॒षं वि ज᳚भ्रिर उद॒कं कु॒म्भिनी᳚रिव ॥
▶ पदपाठः (Word-by-word)
त्रिः । स॒प्त । म॒यू॒र्यः᳚ । स॒प्त । स्वसा᳚रः । अ॒ग्रुवः᳚ ।
ताः । ते॒ । वि॒षम् । वि । ज॒भ्रि॒रे॒ । उ॒द॒कम् । कु॒म्भिनीः᳚॑इव ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रिःसप्त एकविंशतिसंख्याकाः मयूर्योमयूरस्त्रियः ताः विषकारिसर्पद्वेषिण्यइतिप्रसिद्धाः नागद्वे- षिगरुडपक्षादुत्पन्नत्वात् तथासप्त एतत्संख्याकाः सर्पणस्वभावाःस्वसारः स्वयमेवसरणाः अग्रुवः नदीनामैतत् गंगाद्याःप्रसिद्धाः सप्तनद्यः सन्ति तास्ते हेदेह तवविषंविजभ्रिरे विशेषेणहरन्तु तत्रदृ- ष्टान्तः—उदकंकुभिनीः कुंभीन्यःकुंभवत्यः कुंभेनजलहारिण्यइव तायथातद्धरन्ति तद्वन्नद्योमयूर्य- श्चातिप्रभूतंहरन्तु ॥ १४ ॥ अथपञ्चदशी—