अरं᳚ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि᳚न्धतां पु॒रः ।
तत्रा॒मृत᳚स्य॒ चेत᳚नं य॒ज्ञं ते᳚ तनवावहै ॥
तत्रा॒मृत᳚स्य॒ चेत᳚नं य॒ज्ञं ते᳚ तनवावहै ॥
पदपाठः (Word-by-word)
अर᳚म् । कृ॒ण्व॒न्तु॒ । वेदि᳚म् । सम् । अ॒ग्निम् । इ॒न्ध॒ता॒म् । पु॒रः ।
तत्र᳚ । अ॒मृत᳚स्य । चेत᳚नम् । य॒ज्ञम् । ते॒ । त॒न॒वा॒व॒है॒ ॥
तत्र᳚ । अ॒मृत᳚स्य । चेत᳚नम् । य॒ज्ञम् । ते॒ । त॒न॒वा॒व॒है॒ ॥
सायणभाष्यम् (Sayana Commentary)
इदमिन्द्रवाक्यं अपरेग्स्त्यवाक्यमाहुः हेऋत्विजोयूयंअगस्त्योङ्गीकृतवान् तस्माद्वेदिमरंकृण्वन्तु कुर्वन्तु संमार्जनपर्युक्षणादिनापरिचरन्तु तथापुरः पुरस्तात् अग्निमाहवनीयादिकंसमिन्धतां इघ्मप्र- क्षेपेणप्रज्वालयन्तु तत्राग्नावमृतस्यामरणलक्षणस्यदेवत्वस्यचेतनंप्रज्ञापकंयज्ञं हेअगस्त्य तेत्वदीयंत्वं- चाहंचतनवावहै अगस्त्यवाक्यपक्षेशिष्टमविशिष्टं तत्र वेद्याममृतस्यतत्साधनस्य हविषश्चेतनंप्रज्ञाप- नमासादनंकुरुत किञ्च आवांपत्नीयजमानौ अध्वर्युयजमानौवा हेइन्द्र तेत्वदर्थंयज्ञंतनवावहै ॥ ४ ॥