त्वमी᳚शिषे वसुपते॒ वसू᳚नां॒ त्वं मि॒त्राणां᳚ मित्रपते॒ धेष्ठ᳚ः ।
इन्द्र॒ त्वं म॒रुद्भि॒ः सं व᳚द॒स्वाध॒ प्राशा᳚न ऋतु॒था ह॒वींषि᳚ ॥
इन्द्र॒ त्वं म॒रुद्भि॒ः सं व᳚द॒स्वाध॒ प्राशा᳚न ऋतु॒था ह॒वींषि᳚ ॥
पदपाठः (Word-by-word)
त्वम् । ई॒शि॒षे॒ । व॒सु॒॑प॒ते॒ । वसू᳚नाम् । त्वम् । मि॒त्राणा᳚म् । मि॒त्र॒॑प॒ते॒ । धेष्ठः᳚ ।
इन्द्र᳚ । त्वम् । म॒रुत्॑भिः᳚ । सम् । व॒द॒स्व॒ । अध᳚ । प्र । अ॒शा॒न॒ । ऋ॒तु॒॑था । ह॒वींषि᳚ ॥
इन्द्र᳚ । त्वम् । म॒रुत्॑भिः᳚ । सम् । व॒द॒स्व॒ । अध᳚ । प्र । अ॒शा॒न॒ । ऋ॒तु॒॑था । ह॒वींषि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
इदमगस्त्यवाक्यं हेवसूनांवसुपते अतिप्रभूतानांपुरोडाशाज्यादिधनानांस्वामिन् हेइन्द्र त्वमीशि- षे ईश्वरोभवसि सर्वस्यवृत्त्यवृत्तिभ्यांबहुत्वंनित्यसंबन्धश्च्प्रतिपद्यते यद्वा हेवसुपते वसूनामीशिषेइ- तियोजना द्वितीयोवसुश्ब्दोनुवादोवा तथा हेमित्राणांमित्रपते अस्मदादिमित्रस्य नित्यंपालकेन्द्र त्वंधेष्ठः सर्वस्यातिशयेनधारकोसि हेइन्द्र त्वंउक्तमहिमस्त्वंमरुद्भिः संवदस्व तैः साकंसम्यक् कृत- मितिवदस्व अध अपिच त्वंऋतुथा ऋतावृतौ उपलक्षणमेतत्कालस्य तत्तद्यागकालेहवींषिआज्य- चर्वादीनिप्राशनप्रकर्षेणभुंक्ष्व ॥ ५ ॥
प्रतिवइतिषळृचंसप्तमंसूक्तं आगस्त्यं त्रैष्टुभं मारुतं आद्येद्वेकेवलमारुते शिष्टाश्चतस्रोमरुत्वदिन्द्र- देवताकाः प्रतिवःषण्मारुतंतुचतस्रोन्त्यामरुत्वतीयाइत्यनुक्रमणिका विशेषविनियोगोलैङ्गिकः ।