श्रवणम्

1.170.2 समानपद
किं न᳚ इन्द्र जिघांससि॒ भ्रात᳚रो म॒रुत॒स्तव᳚ ।
तेभि᳚ः कल्पस्व साधु॒या मा नः᳚ स॒मर᳚णे वधीः ॥
▶ पदपाठः (Word-by-word)
किम् । नः॒ । इ॒न्द्र॒ । जि॒घां॒स॒सि॒ । भ्रात᳚रः । म॒रुतः᳚ । तव᳚ ।
तेभिः᳚ । क॒ल्प॒स्व॒ । सा॒धु॒॑या । मा । नः॒ । स॒म्॑अर᳚णे । व॒धीः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमग्स्त्यवाक्यं हेइन्द्र नोस्माननपराधिनः किंजिघांससि हन्तुमिच्छसि कथमवध्यत्वमित्यत- आह—मरुतस्तवभ्रातरः त्वयाभोगप्रदानेनभरणीयाइत्यर्थः अतोवयमवध्याइत्युक्तंभवति मरुता- मिन्द्रभ्रातृत्वमेकस्मिन्नेवदितिगर्भेउत्पन्नत्वात् साचोत्पत्तिःपुराणेषुप्रसिद्धा सन्तुभ्रातरः ततश्चकिमि- त्यतआह—तेभिस्तैर्मरुद्भिःसह साधुयासाधुत्वंकल्पस्व कल्पय हविर्भागान्तैः सहयुद्धंवानोस्मान् स- मरणेसङ्ग्रामेमावधीः माहिंसीः यद्वा कॢप्तेर्दृष्टान्तः—सङ्ग्रामेयथाविरोधिनंहंसिनतथास्मानिति ॥ २ ॥