श्रवणम्

1.161.12
स॒म्मील्य॒ यद्भुव᳚ना प॒र्यस᳚र्पत॒ क्व᳚ स्वित्ता॒त्या पि॒तरा᳚ व आसतुः ।
अश᳚पत॒ यः क॒रस्नं᳚ व आद॒दे यः प्राब्र᳚वी॒त्प्रो तस्मा᳚ अब्रवीतन ॥
▶ पदपाठः (Word-by-word)
स॒म्॑मील्य᳚ । यत् । भुव᳚ना । प॒रि॒॑अस᳚र्पत । क्व᳚ । स्वि॒त् । ता॒त्या । पि॒तरा᳚ । वः॒ । आ॒स॒तुः॒ ।
अश᳚पत । यः । क॒रस्न᳚म् । वः॒ । आ॒॑द॒दे । यः । प्र । अब्र᳚वीत् । प्रो इति᳚ । तस्मै᳚ । अ॒ब्र॒वी॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋभवोरश्मयोयूयं यत् यदाभुवनाभूतजातानि संमील्यसंमीलनंक्रुत्वाजलधरपटलैराच्छाद्यप- र्यसर्पत परितःसर्पणंकुरुथ वर्षथेत्यर्थः तदा ता त्या ता तौ तायमानेवृष्ट्युदके यद्वा तात्या तासु व- र्षासु छान्दसस्त्यप्रत्ययोदकारस्यात्वंच अथवा पितृविशेषणं तात्या तत्कालीनौ पितरा पितरौ ज- गतः पालकौसूर्याचन्द्रमसौ क्वस्विदासतुः कुत्रखलुतिष्ठतः अस्तेर्लिटि व्यत्ययेनभूभावाभावः यद्वा अ- सतेर्गत्यर्थस्यलिट्येतद्रूपं अहोरात्राविभागेनप्रवर्षथेत्यर्थः किंच ईदृशान्वोयुष्मान्यःकोऽपि वृष्टिप्रति- बंधकारीराक्षसादिः करस्नं बाहुनामैतत् करस्नौबाहूइत्युक्तत्वात् अत्रत्वकारान्तं युष्मदीयंहस्तंआददे- गृह्णाति प्रतिरोधंकरोति तमशपत नाशयथ यश्चप्राब्रवीत् प्रकर्षेणवाचानिरूंधेतस्मै प्रो प्रैवाब्रवीतन प्रकर्षेणभर्त्सनादिशब्दंकुरुथ यद्वा योनूनंस्तौति तंप्रकर्षेणस्तुतेत्यर्थः ॥ १२ ॥