इन्द्रो॒ हरी᳚ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति᳚र्वि॒श्वरू᳚पा॒मुपा᳚जत ।
ऋ॒भुर्विभ्वा॒ वाजो᳚ दे॒वा{4} अ᳚गच्छत॒ स्वप᳚सो य॒ज्ञियं᳚ भा॒गमै᳚तन ॥
ऋ॒भुर्विभ्वा॒ वाजो᳚ दे॒वा{4} अ᳚गच्छत॒ स्वप᳚सो य॒ज्ञियं᳚ भा॒गमै᳚तन ॥
पदपाठः (Word-by-word)
इन्द्रः᳚ । हरी᳚ । यु॒यु॒जे । अ॒श्विना᳚ । रथ᳚म् । बृह॒स्पतिः᳚ । वि॒श्व॑रू᳚पाम् । उप᳚ । आ॒ज॒त॒ ।
ऋ॒भुः । वि॑भ्वा᳚ । वाजः᳚ । दे॒वान् । अ॒ग॒च्छ॒त॒ । सु॒॑अप᳚सः । य॒ज्ञिय᳚म् । भा॒गम् । ऐ॒त॒न॒ ॥
ऋ॒भुः । वि॑भ्वा᳚ । वाजः᳚ । दे॒वान् । अ॒ग॒च्छ॒त॒ । सु॒॑अप᳚सः । य॒ज्ञिय᳚म् । भा॒गम् । ऐ॒त॒न॒ ॥
सायणभाष्यम् (Sayana Commentary)
पूर्वंसृष्टानांक्रमेणविनियोगमाह—इन्द्रोहरीयुयुजे एतन्नामानावश्वौरथेयोजितवान् तथा अश्वि- नाअश्विनौ रथंयोजितवन्तौ तथाबृहस्पतिः बृहतोमन्त्रस्य पालयिता एतन्नामकोदेवो विश्वरूपां नानारूपोपेतांगांउपाजत उपागमत् स्वीकृतवानित्यर्थः यद्यप्यत्रगौरितिविशेषोनश्रुतः तथापिपूर्वं धेनुःकर्त्वेत्युक्तत्वात् परस्ताच्चयेधेनुंविश्वजुवं विश्वरूपामितिवक्ष्यमाणत्वाच्च विश्वरूपागौरित्येवा- ध्यवसीयते अतएवविश्वरूपामितिचतस्याश्वपंक्तिमितिकेचनव्याचक्षते ततदसत् युष्मत्संपादितानि रथादीनींद्रादयः स्वभागत्वेनाकल्पयन् तस्मादृभुर्विभ्वावाजश्च यूयं देवानिंद्रादीनगच्छत गत्वाच हेस्वपसः शोभनाश्वरथयोकर्मवन्तोयूयं यज्ञियं यज्ञार्हं यज्ञसंबंधिनंभागं सोमरूपं देवत्वंप्राप्तैः सेव- नीयं ऎतन प्राप्नुत कर्मसामर्थ्येनहविर्भुजोभवतेत्यर्थः इत्येवमृषिराह ॥ ६ ॥