श्रवणम्

1.161.5 समानपद
हना᳚मैना{4}॒ इति॒ त्वष्टा॒ यदब्र᳚वीच्चम॒सं ये दे᳚व॒पान॒मनि᳚न्दिषुः ।
अ॒न्या नामा᳚नि कृण्वते सु॒ते सचा{4}᳚ अ॒न्यैरे᳚नान्क॒न्या॒३॒᳚ नाम᳚भिः स्परत् ॥
▶ पदपाठः (Word-by-word)
हना᳚म । ए॒ना॒न् । इति᳚ । त्वष्टा᳚ । यत् । अब्र᳚वीत् । च॒म॒सम् । ये । दे॒व॒॑पान᳚म् । अनि᳚न्दिषुः ।
अ॒न्या । नामा᳚नि । कृ॒ण्व॒ते॒ । सु॒ते । सचा᳚ । अ॒न्यैः । ए॒ना॒न् । क॒न्या᳚ । नाम᳚॑भिः । स्प॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एनान्वक्ष्यमाणान्हनामेति यद्यदाअब्रवीत् त्वष्टा पूजार्थंबहुवचनं एतच्छब्दस्यप्रकृतपरामर्शक- त्वात् ऋभूणांप्रकृतत्वात् तेषांहननप्रसक्तिंदर्शयति येदेवपानं देवैःपातव्यं चमसंयेऋभवोऽनिन्दिषुः निंदांअकुर्वन् देवयोग्यंत्वाष्ट्रचमसंमनुष्याऋभवः स्वीकृत्यचतुर्धाव्यभजन् तान्हनामेति यदाब्रवीदि- त्यर्थः तदाप्रभृतिमनुष्याः सुतेअभिषुतेसोमेपानायप्रस्तुतेसतिसचासहपरस्परंअन्यानमानि अन्या- निहोत्रध्वर्यूद्गात्रादीनिकृण्वेकुर्वन्ति पूर्वंनामप्रच्छाद्योपहवकालेअध्वर्यउपह्वयस्वहोतरुपह्वयस्वे- त्येवमन्यैरेवनामभिः आत्मानंत्वष्टृवधभीत्याप्रख्यापयन्तीत्यर्थः पूर्वमन्यानिनामानिकथंप्रसक्तानी- त्यतआह—एनान्नरान्कन्यास्वोत्पादयित्रीमाता अन्यैरेवनामभिः स्परत् प्रीणयति स्पृप्रीतिपालनयोः लेट्यडागमः ॥ ५ ॥