आ नि॒म्रुच॒ः शकृ॒देको॒ अपा᳚भर॒त्किं स्वि᳚त्पु॒त्रेभ्य᳚ः पि॒तरा॒ उपा᳚वतुः ॥
पदपाठः (Word-by-word)
आ । नि॒॑म्रुचः᳚ । शकृ᳚त् । एकः᳚ । अप᳚ । अ॒भ॒र॒त् । किम् । स्वि॒त् । पु॒त्रेभ्यः᳚ । पि॒तरौ᳚ । उप᳚ । आ॒व॒तुः॒ ॥
सायणभाष्यम् (Sayana Commentary)
अत्रऋभवएवऋत्विग्रूपेणस्थित्वासर्वत्रयज्ञंनिर्वहंतीत्याह श्रोणांशोणं वाछन्दसीतिपररूपाभावः शोणवर्णमुदकंरुधिरं एकः ऋभुषुमध्येऋत्विग्गामवाजति वाह्यभूमिंप्रतिगमयति रक्षोभागत्वेनस्था- पयति तथा एकोमांसं सूनया छेदनसाधनेन स्वधितिनाआभृतं संपादितंपिंशति हृदयजिह्वावक्षआ- द्याकारेणआहृतंसंपादितंमांसंपिंशति अवयवीकरोति स्वधितिनातत्तदवयवान्विभजतीत्यर्थः अथै- कोनिम्रुचः निःशेषेणछिन्नान्मांसात् शकृत् कुक्षिस्थंजरत्तृणं ऊवध्यनामकं अपाभरत् अपाहरत् निर- सनाय एवं ऋत्विग्रूपेणस्थितेभ्यःपुत्रेभ्यः पुरुत्रातृभ्यः पुत्रस्थानीयेभ्यः ऋभुभ्यः सर्वेष्वनुष्ठितेषु पि- तरायज्ञस्यपालयितारौजायापती किंस्विदुपावतुः किंनु खलुप्राप्नुतः अवतेःप्राप्त्यर्थाच्छान्दसोलिट् सं- र्वतैरेवानुष्ठितमिति तयोर्नकिंचित्कृत्यमस्तीत्यर्थः अथवायमर्थः एकस्तेषामन्यतमः श्रोणां पंगुक्रांगां उदकं प्रत्यवगमयति अपरः सूनयामां सविक्रयिण्याभृतंसंपादितंमांसंपिंशति पित्रोरर्थे अपरआनिम्नु-चः अस्तमयादर्वागेव शकृद्गोपुरीषंहरति एवमृभुभिरनुष्ठितेसति किंस्वित् एतस्मात्परिचरणादन्यत् पुत्रेभ्यः पितरौउपावतुः उपगच्छेतामिति ॥ १० ॥