श्रवणम्

1.161.9
आपो॒ भूयि᳚ष्ठा॒ इत्येको᳚ अब्रवीद॒ग्निर्भूयि᳚ष्ठ॒ इत्य॒न्यो अ᳚ब्रवीत् ।
व॒ध॒र्यन्तीं᳚ ब॒हुभ्य॒ः प्रैको᳚ अब्रवीदृ॒ता वद᳚न्तश्चम॒सा{4} अ᳚पिंशत ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । भूयि᳚ष्ठाः । इति᳚ । एकः᳚ । अ॒ब्र॒वी॒त् । अ॒ग्निः । भूयि᳚ष्ठः । इति᳚ । अ॒न्यः । अ॒ब्र॒वी॒त् ।
व॒धः॒॑यन्ती᳚म् । ब॒हु॑भ्यः᳚ । प्र । एकः᳚ । अ॒ब्र॒वी॒त् । ऋ॒ता । वद᳚न्तः । च॒म॒सान् । अ॒पिं॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चमसचतुर्धाकरणकालेकिमितिसत्यंमदन्तोव्यभजन्नितितदाह—एकस्त्रयाणामन्यतमः आपोभू- यिष्ठाइत्यब्रवीत् नह्युदकात्प्रशस्तंलोकोपकारकंतत्वान्तरमस्त्यतआपोभूयिष्ठाइत्येवमवादीत् अपा- मेवश्रेष्ठत्वमपएवससर्जादावित्यादिशास्त्रात् तथान्योऽग्निर्भूयिष्ठइत्यब्रवीत् आंतरंबाह्यं चदाहपाकभु- क्तजरणादिव्यापारेणाग्नेरेवजगन्निर्वाहकत्वात् अग्नेरेवभूयिष्ठत्वमित्येवमन्यते तथा वधर्यन्तींवधरि- तिरेफान्तोऽपिवज्रनाम वधः अर्कइतितन्नामसुपाठात् तदिच्छतिवृष्ट्यर्थंवज्रेणहन्यमानत्वात् तदि- च्छतीत्युपचर्यते यद्वा बहुभ्यस्तेषामर्थाय वधर्यन्तींवधमात्मनइच्छन्तींभूमिं छान्दसोरेफोपजनः ता- मेवैकःबहुभ्यः संवांदभ्यः श्रेष्ठतमामब्रवन्तः चमसान् अपिंशतअवयविनोऽकुरुत चतुर्धाव्यभजतेत्यर्थः पिशिअवयवे शेमुचादीनामितिनुम् इदमेवऋतवदनंअपेक्ष्यऋभुशब्दंव्याचक्षाणोयास्कः—ऋभवउ- रुभान्तीतिवर्तेनभवन्तीत्युक्तवान् ॥ ९ ॥