श्रवणम्

1.161.8
इ॒दमु᳚द॒कं पि᳚ब॒तेत्य᳚ब्रवीतने॒दं वा᳚ घा पिबता मुञ्ज॒नेज᳚नम् ।
सौध᳚न्वना॒ यदि॒ तन्नेव॒ हर्य᳚थ तृ॒तीये᳚ घा॒ सव᳚ने मादयाध्वै ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । उ॒द॒कम् । पि॒ब॒त॒ । इति᳚ । अ॒ब्र॒वी॒त॒न॒ । इ॒दम् । वा॒ । घ॒ । पि॒ब॒त॒ । मु॒ञ्ज॒॑नेज᳚नम् ।
सौध᳚न्वनाः । यदि᳚ । तत् । न॑इ᳚व । हर्य᳚थ । तृ॒तीये᳚ । घ॒ । सव᳚ने । मा॒द॒या॒ध्वै॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदानीमृषिर्देवैरुक्तमर्थंतान्संबोध्य यूयंऋभूनेवमुक्तवन्तःस्थेत्यनुवाचयति हेसौधन्वनाः सुधन्वनः पुत्राः यूयं इदमुदकं सोद्मलक्षणं पिबत इत्यब्रवीतन इत्युक्तवन्तः ब्रवीतेर्लङिमध्यमबहुवचनस्यतस्य- तनबादेशे पित्त्वाद्ब्रुवईट् एतत्प्रातः सवनिकाभिप्रायं वा अथवा घेत्यनर्थकः प्रसिद्भ्यर्थोवा इदंमुंज- नेजनं मुंजवान्नामपर्वतः सोमोत्पत्तिस्थानं ततआहृतत्वात्तेनमुंजतृणेनशोधितं अपगततृणमित्यर्थः इदंसोमरसरूपमुदकं पिबतेत्यब्रवीतन एतन्माध्यंदिनसवनाभिप्रायं हेऋभवः यूयंतत् उभयसवनसं- बन्धि सोमपानकार्यं नेवहर्यथ नैवकामयथ हर्यतिःकान्तिकर्मा हर्यतिउशिगितितत्कर्मसुपाठात् तृती- यसवनेतु मादयाध्वै अत्यर्थं तृप्ताभवथ ऋभवोदेवाःसोमस्य मत्सन्नितितृतीयसवने तेषांसोमपानस- द्भावात् एवंयूयमृभूनुक्तवन्तः अथवा ऋभून्प्रति तस्यैवेदं वाक्यं हेसौधन्वनाः यूयंदेवत्वंप्राप्य देवय- जनंप्रतिसोमपानायरथेनागत्य श्रांतानश्वान् प्रातः सवनेइदमुदकं सोमलक्षणं पिबतेत्यब्रवीतन तत्र- दिनेच्छथ इदंवा मुंजनेजनं मुंजेनदूषितं वाजिनं पिबतेत्यब्रवीतन पश्चात्तद्वयंयदिनेवहर्यथ हेअश्वाः यूयं तृतीयसवने मादयाध्वै तत्रापिवाजिनप्रचारात् ॥ ८ ॥