श्रवणम्

1.161.7
निश्चर्म᳚णो॒ गाम᳚रिणीत धी॒तिभि॒र्या जर᳚न्ता युव॒शा ताकृ᳚णोतन ।
सौध᳚न्वना॒ अश्वा॒दश्व᳚मतक्षत यु॒क्त्वा रथ॒मुप᳚ दे॒वा{4} अ᳚यातन ॥
▶ पदपाठः (Word-by-word)
निः । चर्म᳚णः । गाम् । अ॒रि॒णी॒त॒ । धी॒ति॑भिः᳚ । या । जर᳚न्ता । यु॒व॒शा । ता । अ॒कृ॒णो॒त॒न॒ ।
सौध᳚न्वनाः । अश्वा᳚त् । अश्व᳚म् । अ॒त॒क्ष॒त॒ । यु॒क्त्वा । रथ᳚म् । उप᳚ । दे॒वान् । अ॒या॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसौधन्वनाः यूयं निश्चर्मणा मृतायागोः सकाशादुत्कृत्ताच्चर्मणः गांनूतनां निररिणीत निरगमयत उत्पादितवन्तः तेनैवचर्मणासंवीतांतत्सदृशीमन्यांधेनुंकृतवन्तइत्यर्थः यद्यपिपूर्वमेवाश्वादीनां विनि- योगउक्तः तथापितेषामत्यन्तदुःखसंपादत्वज्ञापनाय पुनराह—नकेवलं गोकरणमेव अपिच या जरं- ता यौजीर्णौ पितरौ ता तौ युवशा युवानौ कृणोतन अकुरुत किंच अश्वादश्वं एकेनविद्यमानेनाश्वेना- श्वान्तरमतक्षत प्रयत्नेनसंपादितवन्तः यस्मादेवं कृतवंतस्तस्माद्रथं युष्मदीयंयुक्त्वाश्वैर्योजयित्वादे- वानिन्द्रादीनुपायातन देवसमीपंप्राप्नुत ॥ ७ ॥