श्रवणम्

1.161.3
अ॒ग्निं दू॒तं प्रति॒ यदब्र᳚वीत॒नाश्व॒ः कर्त्वो॒ रथ᳚ उ॒तेह कर्त्व᳚ः ।
धे॒नुः कर्त्वा᳚ युव॒शा कर्त्वा॒ द्वा तानि᳚ भ्रात॒रनु᳚ वः कृ॒त्व्येम᳚सि ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । दू॒तम् । प्रति᳚ । यत् । अब्र᳚वीतन । अश्वः᳚ । कर्त्वः᳚ । रथः᳚ । उ॒त । इ॒ह । कर्त्वः᳚ ।
धे॒नुः । कर्त्वा᳚ । यु॒व॒शा । कर्त्वा᳚ । द्वा । तानि᳚ । भ्रा॒तः॒ । अनु᳚ । वः॒ । कृ॒त्वी । आ । इ॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेआगतदेव अग्निंअंगनादिगुणविशिष्टंदूतं दूतकर्मप्राप्तवन्तं त्वांप्रतियद्यत्कार्थं अब्रवीतन अब्रुवन्- व्यत्ययेनमध्यमः पूर्ववत्तनप् किमिति अश्वः कर्त्वः एकस्मादश्वात् अश्वांतरंकर्तव्यमित्यर्थः अश्वादश्व- मतक्षतेतिवक्ष्यमाणत्वात् कृत्यार्थेतवैकेनितित्वन्प्रत्ययः उत अपिच रथः कर्त्वः कर्तव्यः धेनुः कर्त्वा- चर्मरहितागौः नित्यदोग्ध्रीपुनर्नूतनाकार्या तदुत्तरत्र निश्चर्मणोगमरिणीतधीति भिरितिवक्ष्यमाण- त्वात् तथा द्वा द्वौपितरौजीर्णौसंतौ पुनर्युवशा युवानौ शयानौ प्रकृष्टयौवनोपेतौ कर्त्वा कर्तव्यौ हेभ्रा- तरग्ने तानि वः युष्माकंदेवानां तैरुक्तानिकर्माणिकृत्वा अनु पश्चात् कृत्वी कृत्व्याकर्मणा एमसि एमः आभिमुख्येनप्राप्नुमः इण् गतौ इदन्तोमसिः यद्वा ऋषेरिदंवाक्यं हे ऋभवोयूयंआगतं अग्निंदूतंप्रतिय- दब्रवीतन यत्कार्यं वक्ष्यमाणरूपंकर्तव्यत्वेनवदथ अङ्गीकुरुथ तानिसर्वाणिसंपाद्य हेभ्रातरग्ने कृत्व्या कर्मणा एमसीति ब्रूथेतिऋषिराह ॥ ३ ॥