ए॒वा नो᳚ अग्ने स॒मिधा᳚ वृधा॒नो रे॒वत्पा᳚वक॒ श्रव᳚से॒ वि भा᳚हि ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
पदपाठः (Word-by-word)
ए॒व । नः॒ । अ॒ग्ने॒ । स॒म्॑इधा᳚ । वृ॒धा॒नः । रे॒वत् । पा॒व॒क॒ । श्रव᳚से । वि । भा॒हि॒ ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
सायणभाष्यम् (Sayana Commentary)
हे पावक शोधकाग्ने समिधास्माभिर्दत्तेन समिदादिद्रव्येणैवैवमुक्तप्रकारेण वृधानो वर्धमानः सन् रेवत् रयिमते धनयुक्ताय नोऽस्माकं श्रवसेऽन्नाय वि भाहि । विशेषेण दीप्यस्व । अस्माकं तादृशमन्नं प्रयच्छेत्यर्थः । नोऽस्माकं तदन्नं मित्रादयो ममहंताम् । पूजयंताम् । रक्षंत्वित्यर्थः । उतशब्दः समुच्यये । पृथिवी च द्यौश्चेत्यर्थः ॥ एव । निपातस्य चेति संहितायां दीर्घः । वृधानः । वृधेरंतर्भावितण्यर्थात्ताच्छीलिकश्चानश् । बहुलं छंदसीति शपो लुक् । चानशः सार्वधातुकत्वेन ङित्त्वाल्लघूपदगुणाभावः । लसार्वधातुकत्वाभावेनानुदात्तत्वाभावे चित्स्वर एव शिष्यते । रेवत् । रयिशब्दान्मतुप् । रयेर्मतौ बहुलमिति संप्रसारणम् । छंदसीर इति मतुपो वत्वम् । रेशब्दाच्च । का ६ १-१७६-१ । इति मतुप उदात्तत्वम् । सुपां सुलुगिति चतुर्थ्या लुक् ॥ ११ ॥