उ॒रु ते॒ ज्रय॒ः पर्ये᳚ति बु॒ध्नं वि॒रोच᳚मानं महि॒षस्य॒ धाम᳚ ।
विश्वे᳚भिरग्ने॒ स्वय᳚शोभिरि॒द्धो॑द᳚ब्धेभिः पा॒युभि᳚ः पाह्य॒स्मान् ॥
विश्वे᳚भिरग्ने॒ स्वय᳚शोभिरि॒द्धो॑द᳚ब्धेभिः पा॒युभि᳚ः पाह्य॒स्मान् ॥
पदपाठः (Word-by-word)
उ॒रु । ते॒ । ज्रयः᳚ । परि᳚ । ए॒ति॒ । बु॒ध्नम् । वि॒॑रोच᳚मानम् । म॒हि॒षस्य᳚ । धाम᳚ ।
विश्वे᳚भिः । अ॒ग्ने॒ । स्वय᳚शः॑भिः । इ॒द्धः । अद᳚ब्धेभिः । पा॒यु॑भिः᳚ । पा॒हि॒ । अ॒स्मान् ॥
विश्वे᳚भिः । अ॒ग्ने॒ । स्वय᳚शः॑भिः । इ॒द्धः । अद᳚ब्धेभिः । पा॒यु॑भिः᳚ । पा॒हि॒ । अ॒स्मान् ॥
सायणभाष्यम् (Sayana Commentary)
महिषस्य महतस्ते तव ज्रयो राक्षसादीनामभिभावुकं विरोचमानं विशेषेण दीप्यमानमुरु विस्तीर्णं धाम तेजो बुध्नमपां मूलभूतमंतरिक्षं पर्येति । परितो व्याप्नोति । हे अग्ने । इद्धोऽस्माभिः प्रज्वलितः सन् विश्वेभिः सर्वैः स्वयशोभिः स्वकीयैरात्मीयैस्तेजोभिरस्मान्पाहि । रक्ष । कीदृशैः । अदब्धेभी राक्षसादिभिरहिंसितैः । पायुभिः । पालनशक्तैः ॥ ज्रयः । जि । ज्रि अभिभवे । असुन् । अदब्धेभिः । दन्भु दंभे । निष्ठायां यस्य विभाषेतीट्प्रतिषेधः । अनिदितामिति नलोपः । झषस्तथोर्धोऽध इति धत्वम् । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । बहुलं छंदसीति भिस ऐसभावः ॥ ९ ॥