श्रवणम्

1.95.6
उ॒भे भ॒द्रे जो᳚षयेते॒ न मेने॒ गावो॒ न वा॒श्रा उप᳚ तस्थु॒रेवै᳚ः ।
स दक्षा᳚णां॒ दक्ष᳚पतिर्बभूवा॒ञ्जन्ति॒ यं द᳚क्षिण॒तो ह॒विर्भि᳚ः ॥
▶ पदपाठः (Word-by-word)
उ॒भे इति᳚ । भ॒द्रे इति᳚ । जो॒ष॒ये॒ते॒ इति᳚ । न । मेने॒ इति᳚ । गावः᳚ । न । वा॒श्राः । उप᳚ । त॒स्थुः॒ । एवैः᳚ ।
सः । दक्षा᳚णाम् । दक्ष᳚॑पतिः । ब॒भू॒व॒ । अ॒ञ्जन्ति᳚ । यम् । द॒क्षि॒ण॒तः । ह॒विः॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उभे अहश्च रात्रिश्च । यद्वा । उभे द्यावापृथिव्यौ अरणी वा । भद्रे भजनीये शोभनांग्यौ मेने स्त्रियौ जोषयेते न । सेवेते इव । यथा शोभने स्त्रियौ चामरहस्ते राजानमुभयतः सेवेते । एवं द्यावापृथिव्यावेनमग्निमुभयतः सेवेते इत्यर्थः । अपि च वाश्रा हंभारवं कुर्वत्यो गावो न गावो यथैवैः स्वकीयैश्चरित्रैरादरातिशयेन स्वकीयान्वत्सानुप तस्थुः संगच्छंते । तथेममग्निं द्यावापृथिव्यावुपस्थिते भवतः । पूर्वं सेवनमात्रमुक्तम् । इदानीं पुनर्गोनिदर्शनेन तत्रैवादरातिशयो द्योत्यते । अतः सोऽग्निर्दक्षाणां सर्वेषां बलानां दक्षपतिर्बलाधिपतिर्बभूव आसीत् । बलानां मध्ये यदतिशयितं बलं तस्याधिपतिर्बभूवेत्यर्थः । यमग्निं दक्षिणत आहवनीयस्य दक्षिणभागेऽवस्थिता ऋत्विजो हविर्भिश्चरुपुरोडाशादिभिरंजंति । आर्द्रीकुर्वंति तर्पयंति । सोऽग्निरिति पूर्वेणान्वयः ॥ वाश्राः । वाशृ शब्दे । स्थायितंचीत्यादिना रक् । एवैः । इण् गतौ । इण् शीङ् भ्यां वन्निति भावे वन्प्रत्ययः ॥ ६ ॥