राजा᳚ना मि॒त्रावरु᳚णा सुपा॒णी गोषु᳚ प्रि॒यम॒मृतं॒ रक्ष᳚माणा ॥
पदपाठः (Word-by-word)
राजा᳚ना । मि॒त्रावरु᳚णा । सु॒पा॒णी इति᳚ सु॒॑पा॒णी । गोषु᳚ । प्रि॒यम् । अ॒मृत᳚म् । रक्ष᳚माणा ॥
सायणभाष्यम् (Sayana Commentary)
यः सूरः सूर्य एक एकाक्यसहायः सन्नध्वनो दिव्यान्मार्गान्सद्य एति आशु गच्छति । असहायत्वं च श्रूयते । सूर्य एकाकी चरतीत्याह । असौ वा आदित्य एकाकी चरतीति । तै । ब्रा । ३-९-५-४ । शीघ्रगमनं च स्मर्यते । योजनानां सहस्रे द्वे द्वे शते द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोऽस्तु त इति । शीघ्रगमने दृष्टांतः । मनो न । यथा मनः शीघ्रं गच्छति तद्वत् । स च शूरो वस्वो धनस्य सत्रा सहैव युगपदेवेशे । ईष्टे । यो हि शीघ्रं गच्छति स बहुदेशेष्टवस्थितानि धनानि प्राप्नोति । तथा राजाना राजमानौ सुपाणी शोभनबाहू मित्रावरुणा मित्रावरुणावस्मदीयासु गोषु प्रियं सर्वेषां प्रीतिकरममृतममृतवत्स्वादुभूतं पयो रक्षमाणा रक्षंतौ वर्तेते । हे अग्ने तत्तद्रूपेण त्वमेवैवं वर्तस इति भावः ॥ वस्वः । लिंगव्यत्ययः । जसादिषु च्छंदसि वावचनमिति घेर्ङितीति गुणाभावे यणादेशः । ईशे । ईश ऐश्वर्ये । लोपस्त आत्मनेपदेष्विति तलोपः । मित्रावरुणा । देवताद्वंद्वे चेति पूर्वपदस्यानङादेशः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वं ॥ ९ ॥