वर्धो᳚ अग्ने॒ वयो᳚ अस्य द्वि॒बर्हा॒ यास᳚द्रा॒या स॒रथं॒ यं जु॒नासि᳚ ॥
पदपाठः (Word-by-word)
वर्धः᳚ । अ॒ग्ने॒ । वयः᳚ । अ॒स्य॒ । द्वि॒॑बर्हाः᳚ । यास᳚त् । रा॒या । स॒॑रथ᳚म् । यम् । जु॒नासि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने तुभ्यं त्वां स्वे दमे स्वकीये यज्ञ गृहे यो यजमानः । एक आकारो मर्यादायाम् । यथाशास्त्रमा विभाति आ समंतात्समिदादिभिः काष्ठैः प्रज्वलयति । अनु द्यून् अनुदिवसमुशतः कामायमानाय तुभ्यं नमो वा दाशात् हविर्लक्षणमन्नं वा दद्यात् । अस्य यजमानस्य हे अग्ने द्विबर्हा द्वयोर्मध्यमोत्तमस्थानयोर्वृंहितो वर्धितस्त्वं वयोऽन्नं वर्धो । वर्धयैव । सरथं रथेन सहितं युयुत्सुं यं पुरुषं जुनासि युद्धे प्रेरयसि स पुरुषो राया धनेन यासत् । संगच्छते ॥ तुभ्यम् । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थी । दाशात् । दाशृ दाने । लेट्याडागमः । उशतः । शतुरनुम इति विभक्तेरुदात्तत्वम् । चतुर्थ्यर्थे बहुलं छंदसीति षष्ठी । अनु द्यून् । द्युरित्यहर्नाम । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । कर्मप्रवचनीययुक्त इति द्वितीया । वर्धो । वर्ध उ । वृधेर्ण्यंताल्लोट च्छंदस्युभयथेति शप आर्धधातु कत्वाण्णेरनिटीति णिलोपः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । उञा सहैकादेश उञः (पा १-१-१७) इति प्रगृह्यत्वम् । यासत् । या प्रापण्धे । सिब्बहुलं लेटीति सिप् । लेटोऽडाटावित्यडागमः । जुनासि । जु इति गत्यर्थः सौत्रो धातुः । शपि प्राप्ते व्यत्ययेन श्ना ॥ ६ ॥