पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
अजो न । अजति गच्छतीत्यजः सूर्यः । यद्वा । न जायत इत्यजः । जन्मरहित इत्यर्थः । स इव । क्षेति पृथिवीनाम । क्षां भूमिं दाधार । अयमग्निः प्रकाशकत्वेन धारयति । पृथिवीत्यंतरिक्षनाम । पृथिवीमंतरिक्षं च धारयतीत्येव । द्यां द्युलोकं सत्यैरवितथार्थैर्मंत्रॆैस्तस्तंभ । स्तभ्नाति । यथाधो न पतति उपर्येव तिष्ठति तथा करोतीत्यर्थः । मंत्रैर्दिवो धारणं तैत्तरीये समाम्नातम् । देवा वा आदित्यस्य सुवर्गलोकस्य पराचोऽतिपातादबिभयुः । तं छंदोभिरदृहन्धृत्या इति । यद्वा । सत्यैर्मंत्रैः स्तूयमानोऽग्निर्द्यां तस्तंभेति । हे अग्ने विश्वायुः विश्वं सर्वमायुरन्नं यस्य स त्वं पश्वः पशोः प्रिया प्रियाणि पदानि शोभनतृणोदकोपेतानि स्थानानि नि पाहि । नितरां पालय । माधाक्षीरित्यर्थः । तर्हि कुत्र निवसामीति चेत् तत्राह । गुहा गुहाया अपि गुहं गुहां गवां संचारयोग्यस्थानं गाः । गच्छ । तत्रैव निवसेत्यर्थः ॥ पश्वः । जसादिषु च्छंदसि वावचनमिति घेर्ङितीति गुणाभावे यणादेशः । उदात्तयण इति विभक्तेरुदात्तत्वम् । गुहा । सुपां सुलुगिति पंचम्या आजादेशः । चित्त्वादंतोदात्तत्वम् । गुहं व्यत्ययेन ह्रस्वत्वम् । गाः । छांदसो लुङ् । इणो गा लुङीति गादेशः ॥ ५ ॥ ६ ॥